Wednesday, March 2, 2022

श्री सरस्वती अष्टोत्तर शतनामावली स्तोत्रम


                                         

 सरस्वती महाभद्रा महामाया वरप्रदा । श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रका ॥ १॥

शिवानुजा पुस्तकभृत् ज्ञानमुद्रा रमा परा । कामरूपा महाविद्या महापातकनाशिनी ॥ २॥

महाश्रया मालिनी च महाभोगा महाभुजा । महाभागा महोत्साहा दिव्याङ्गा सुरवन्दिता ॥ ३॥

महाकाली महापाशा महाकारा महाङ्कुशा । पीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥ ४॥

चन्द्रिका चन्द्रवदना चन्द्रलेखाविभूषिता । सावित्री सुरसा देवी दिव्यालङ्कारभूषिता ॥ ५॥

वाग्देवी वसुधा तीव्रा महाभद्रा महाबला । भोगदा भारती भामा गोविन्दा गोमती शिवा ॥ ६॥

जटिला विन्ध्यवासा च विन्ध्याचलविराजिता । चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥ ७॥

सौदामिनी सुधामूर्तिस्सुभद्रा सुरपूजिता । सुवासिनी सुनासा च विनिद्रा पद्मलोचना ॥ ८॥

विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला । त्रयीमूर्तिः त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ॥ ९॥

शुम्भासुरप्रमथिनी शुभदा च स्वरात्मिका । रक्तबीजनिहंत्री च चामुण्डा चाम्बिका तथा ॥ १०॥

मुण्डकायप्रहरणा धूम्रलोचनमर्दना । सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ॥ ११॥

कालरात्री कलाधारा रूपसौभाग्यदायिनी । वाग्देवी च वरारोहा वाराही वारिजासना ॥ १२॥

चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता । कान्ता कामप्रदा वन्द्या विद्याधरसुपूजिता ॥ १३॥

विद्याधरी सुपूजिता श्वेतानना नीलभुजा चतुर्वर्गफलप्रदा । चतुराननसाम्राज्या रक्तमद्या निरञ्जना ॥ १४॥

हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका । एवं सरस्वतीदेव्या नाम्नामष्टोत्तरं शतम् ॥१५॥



इति श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्सरस्वत्यष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Tuesday, March 1, 2022

Shiva Ashtottara Shatanama Stotram(शिव अष्टोत्तर शतनाम स्तोत्रम)




 शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ।

वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥


शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।

शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२॥


भवः शर्वस्त्रिलोकेशः शितिकण्टः शिवाप्रियः ।

उग्रः कपाली कामारिरन्धकासुरसूदनः ॥२॥


गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।

भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥


कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।

वृषाङ्की वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥


सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ।

सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥


हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः ।

विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥


हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।

भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥


कृत्तिवासाः पुरारातिर्भगवान प्रमथाधिपः ।

मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥


व्योमकेशो महासेनजनकश्चारुविक्रमः ।

रुद्रो भूतपतिः स्ताणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥


अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः ।

शाश्वतः खण्डपरशू रजःपाशविमोचनः ॥११॥


मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ।

पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥


भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात ।

अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥


इति श्रीशिवाष्टोत्तरशतनामावळिस्तोत्रं संपूर्णम